डॉ सर्वपल्ली राधाकृष्णन पर संस्कृत निबंध

डॉ सर्वपल्ली राधाकृष्णन पर संस्कृत निबंध

डॉ सर्वपल्ली राधाकृष्णन पर संस्कृत निबंध: डॉ सर्वपल्ली राधाकृष्णन महोदयः भारतस्य प्रथमः उपराष्ट्रपतिः आसीत्त। तदनन्तरं सः राष्ट्रपतिः अपि अभवत्।ड. सर्वपल्ली राधाकृष्णन् महोदयस्य जन्म 1888(अष्टाशीतिः-उत्तर- अष्टदशशतं ) तमे ख्रिष्टाब्दे सितम्बर मासस्य पञ्चमदिनाङ्के तमिलनाडु राज्ये एकस्मिन् साधारणपरिवारे तिरुतनि नामके एकस्मिन् ग्रामे अभवत्।

तस्य पितुः नाम सर्वपल्ली वीरास्वामी मातुः नाम च सिताम्मा आसीत्! बाल्यकाले राधाकृष्णन्- महोदयस्य पुस्तकानि पठने महती रुचिः आसीत्! तेन राधाकृष्णन् -महोदयेन बाल्ये तस्य ग्रामे च तिरुपतिः मन्दिरे जीवनं यापितम्।माद्रास्- प्रेसिडेन्सी – महाविद्यालयतः तस्य अध्ययनस्य समाप्तेः परं मैसूर- महाविद्यालये प्राध्यापकरूपेण तस्य नियुक्तिः अभवत्। तत्पश्चात् सः समस्तभारते बहुषु महाविद्यालयेषु शिक्षणकार्यं कृतवान् आसीत्।

1939 तः – 1948 तमवर्षपर्यन्तं सः बनारस-विश्व-हिन्दू- महाविद्यालयस्य कुलपतिः अपि आसीत्। सः एकः दर्शनशास्त्री, भारतीयसंस्कृतेः संवाहकः तथा च आस्तावान् हिन्दुविचारकः आसीत्। अस्य महतः शिक्षकस्य सम्मानाय तस्य जन्मदिनं समस्तभारते शिक्षकदिवसरूपेण मन्यते इति शुभम्।


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Comments: