गणेश चतुर्थी पर संस्कृत निबंध (Essay on Ganesh Chaturthi in Sanskrit)

गणेश चतुर्थी पर संस्कृत निबंध (Essay on Ganesh Chaturthi in Sanskrit)

प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेश चतुर्थी। कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव। अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः। शिवगणानाम् अधिपतिः, विघ्ननिवारकः, आदिपूज्यः च। आदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम् इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति। पञ्चायतनदेवतासु अपि अन्यतमः अस्ति गणेशः। जगतः सृष्टि-स्थिति-लयकारकः अपि सः एव। सर्वमयः सः परमात्मा।

पुराणे इतिहासा गमादिषु तस्य रूप-महिमा-उपासनादिकं स्पष्टतया निरूपितम् अस्ति। कलौ दुर्गाविनायकौ इति वाक्यानुसारं गणेशः अस्मिन् कलियुगे सर्वत्रापि विशेषपूजां प्राप्नुवन्नस्ति। न केवलं भारते तस्य आराधनं क्रियते अपि तु बर्मा, मलेश्या, इण्डोनेशिया, चीना, सुमात्रा, जावा, जपान् इत्यादिषु देशेषु अपि पूजां प्राप्नोति गणेशः।

गणेश चतुर्थी पर संस्कृत निबंध (Essay on Ganesh Chaturthi in Sanskrit)

महाभारतं व्यासविरचितं गणेशलिखितम् इति प्रसिद्धम्। याज्ञवल्क्यस्मृतौ, बोधायनगृह्यसूत्रे, महाभारतस्य वनपर्व-अनुशासनपर्वयोः, गोभिलस्मृतौ, बाणभट्टस्य हर्षचरिते, वामनपुराणे, मत्स्यपुराणे, भविष्यपुराणे, अग्निपुराणे, जैनानाम् “आचारदिनकर"ग्रन्थे च गणेशस्य, तस्य पूजायाः, स्वरूपस्य वा उल्लेखः अस्ति। गणपतिमूर्तिषु अपि २१ वा ३२ विधाः सन्ति इति आगमाः वदन्ति। बालगणपतिः, तरुणगणपतिः, भक्तगणपतिः, वीरगणपतिः, शक्तिगणपतिः, द्विजगणपतिः, सिद्धगणपतिः, उच्छिष्टगणपतिः, विघ्नगणपतिः, क्षिप्रगणपतिः, हेरम्भगणपतिः, लक्ष्मीगणपतिः, महागणपतिः, विजयगणपतिः, नृत्यगणपतिः, ऊर्ध्वगणपतिः, एकाक्षरगणपतिः, वरगणपतिः, त्र्यक्षरगणपतिः, क्षिप्रप्रसादगणपतिः, हरिद्रागणपतिः, एकदन्तगणपतिः, सृष्टिगणपतिः, उद्दण्डगणपतिः, ऋणमोचकगणपतिः, ढुण्डिगणपतिः, द्विमुखगणपतिः, त्रिमुखगणपतिः, सिंहगणपतिः, योगगणपतिः, दुर्गागणपतिः, सङ्कष्टहरगणपतिः इति।

विशेषावसरेषु यज्ञयागादिषु वा व्रताचरणेषु वा प्रतिदिनं पूजायां वा प्रथमं पूज्यमान: देव: गणेश:। गणेशचतुर्थ्यां पूज्यमान: गणेश: वरसिद्धिविनायक: इति उच्यते। तद्दिने यद्यपि गणेशस्य एव पूजा क्रियते तथापि विघ्नपरिहारकत्वेन प्रथमं सम्पूज्य अनन्तरं विशेषपूजां कुर्वन्ति। तद्दिने विशेषरूपेण मृत्तिकानिर्मितमूर्तीनाम् एव पूजा क्रियते। मृत्तिकाविग्रहे प्राणप्रतिष्ठापनं कृत्वा द्वारपालकपूजां कुर्वन्ति। अनन्तरं महायोगपीठं ध्यात्वा आधारशक्ति-पीठशक्त्यादीनि उपकरणानि सङ्कल्प्य पूजां कुर्वन्ति। तीव्रा-ज्वलिनी-नन्दा-भोगदा-कामरूपिणी-उग्रा-तेजोवती-सत्या-विघ्ननाशिनी इति नव महाशक्ती:, परिवारदेवता:, आयुधानि, वाहनानि, भूषणानि च ध्यात्वा तै: सर्वै: अलङ्कृतं सिद्धिविनायकम् आराधयन्ति। तस्य गणेशस्य वामभागे अवनता गजशुण्डा भवति। स्वर्णकान्तियुक्त: स: कोटिसूर्यप्रभावान्, महाकाय:, एकदन्त:, मूषकवाहन: च। तस्य चतुर्भुजेषु पाश-अङ्कुश-वरदाभयमुद्रा: भवन्ति। ध्यानानन्तरम् आवाहन-आसन-अर्ध्य-पाद्य-आचमनीय-मधुपर्क-पञ्चामृतस्नान-शुद्धोदकस्नान-वस्त्र-यज्ञोपवीत-आभरण-गन्धाक्षता:-हरिद्रा कुङ्कुम-सिन्धूर-पुष्पादीनां समर्पणं कुर्वन्ति। गन्धे रक्तवर्णीय: गन्ध: गणेशस्य प्रिय:। द्वादशनामभि: तस्य द्वादश अङ्गानां पूजां कुर्वन्ति। गणेशस्य प्रियसंख्या २१। तद्दिने २१ पर्णै: पत्रपूजाम् आचरन्ति। गणेशपूजायाम् उपयुज्यमानानि पर्णानि माचीपुत्र, बृहती (कण्टकारी), बिल्व, दूर्वा, दत्तूर, बदरी, अपामार्ग (उत्तरणी), चूत (आम्र), करवीर, विष्णुक्रान्त, दाडिमी, देवदारु, मरुवक, सिन्धुवार, जाती, गणका, शमी, अश्वत्थ, अर्जुन, अर्क, भृङ्गराज, आश्मातक, गण्डलीकपत्राणि। यद्यपि तुलसी सर्वदेवप्रिया तथापि गणेशपूजायां तुलसीपत्रस्य उपयोगं न कुर्वन्ति।

यत्रैकतुलसीवृक्ष: तिष्ठति द्विजसत्तम।

तत्रैव त्रिदशास्सर्वे ब्रह्मविष्णुशिवादय: ॥

केशव: पत्रमध्यषु पत्राग्रेषु प्रजापति:।

पत्रवृन्ते शिवस्तिष्ठेत्तुलस्या: सर्वदैव हि ॥

लक्ष्मी: सरस्वती चैव गायत्री चूतिका तथा।

शची चान्या देवपत्न्य: तत्पुष्पेषु वसन्ति वै ॥ 

गणेशवाक्यम् -

पत्राणां सारभूता त्वं भविष्यसि मनोरमे।

कलांशेन महाभागे स्वयं नारायणप्रिया ॥

प्रिया त्वं सर्वदेवानां कृष्णस्य च विशेषत:।

पूजा विमुक्तिदा नृणां मम त्याज्या च सर्वदा ॥ 

इति वदन्ति पुराणानि। अत: गणेशपूजायां तुलसीपत्रस्य उपयोग: न क्रियते । पत्रेषु दूर्वा, पुष्पेषु जपाकुसुमं गणेशस्य प्रियतमम्। अत: अन्येषां पत्राणां पुष्पाणां च अभावे दूर्वाजपाकुसुमयो: तत्स्थाने उपयोगं कुर्वन्ति। पत्रपूजानन्तरं पुष्पपूजां कुर्वन्ति। करवीर, जाती, चम्पक, वकुळ, शतपत्र, पुन्नाग, मालती, केतकी, कल्हार, कुन्द, आतसी, किरिकर्णिका, पारिजातम् सेवन्तिका, सुगन्धराज, जपा, कुरवण्टिका, नन्द्यावर्त, द्रोण, मल्लिका, सुगन्धिकमल इत्यादीनि पुष्पाणि उपयुज्यन्ते। पुष्पपूजानन्तरं द्वादशनामावलि:, अष्ठोत्तरशतनामावलि:, अष्ठोत्तरसहस्रनामावलि: इत्यादिभि:, वेदमन्त्रै:, आगमशास्त्रै:, भक्तिश्लोकै:, स्तोत्रै: पूजां कृत्वा धूप-दीप-नैवेद्यादिकं समर्पयन्ति। नैवेद्यार्थं मोदकम्, अपूपं, शष्कुलीं, पृथुकं, मुद्ग-चणकनिर्मितभक्ष्यं, तिललड्डुकं, विविधफलानि, इक्षुं, दुग्ध-दधि-घृत-मधु-शर्करानिर्मितानि भक्ष्याणि एवं प्रकारेण षड्रसापेतं सर्वमपि समर्पयन्ति। नैवेद्येषु गणेशस्य प्रियं मोदकम्। तत्रापि नैवेद्यानां संख्यापि २१, प्रत्येकमपि २१ संख्याकम् अपि भवितुम् अर्हति।

एकविंशतिसंख्याकान् मोदकान् घृतपाचितान्।

नैवेद्यं सफलं दद्यां नमस्ते विघ्ननाशिने ॥ इति उक्तम् अस्ति।

अनन्तरं करोद्वर्तनं, फल-ताम्बूल-सुवर्णपुष्प-भूषणसमर्पणम्, उत्तरनीराजनं, मन्त्रपुष्पश्रावणं, दूर्वासहितपुष्पाञ्जलिसमर्पणं, दक्षिणां, मनसः इच्छापूर्णफलप्रार्थनां च समर्प्य प्रदक्षिणनमस्करान् समर्पयन्ति। तदनन्तरं छत्र-चामर-नृत्य-गीत-वाद्य-स्तोत्र-आन्दोलिका-अश्ववाहन-गजवाहनादीन् उपचारान् यथाशक्ति प्रत्यक्षं वा संकल्परूपेण वा समर्पयन्ति। पूजानन्तरं सत्पात्राय वस्त्रद्वयसहितस्य गणेशविग्रहस्य दानं कुर्वन्ति। एतत् उपायनदानम् इति उच्यते। पूजान्ते प्रसन्नार्घ्यान् समर्प्य उद्वासनं कुर्वन्ति। उद्वासनावसरे

यान्तु देवगणास्सवेर् पूजामादाय मत्कृतां।

इष्ठकाम्यार्थसिध्यर्थं पुनरागमनाय च ॥

यथासुखं यथास्थानम् उद्वासयामि।

शोभनार्थं क्षेमाय पुनरागमनाय च ॥ 

इति वदन्त: देवविग्रहं दक्षिणभागं प्रति किञ्चित् अपसारयन्ति।

उद्वासनानन्तरं तं मृत्तिकाविग्रहं घण्टानादादिमङ्गलवाद्यसहितं यथाशक्तिवैभवेन वीथीषु शोभायात्रायां नीत्वा कूप-पुष्करिणी-सरोवर-नदीषु कुत्रचित् विसर्जयन्ति। विसर्जनात् पूर्वं जलाशयतीरे अपि एकवारं संक्षेपपूजां कृत्वा एव विसर्जनपद्धति: अपि अस्ति। विसर्जनम् अपि कुत्रचित् पर्वदिने एव कुत्रचित् दिनत्रयानन्तरं वा सप्ताहनन्तरं वा कुर्वन्ति। मङ्गलवासरे गणेशस्य विसर्जनं न कुर्वन्ति।

गणेश: आकाशस्य अभिमानिदेवता। अस्य शुण्डा ओङ्कारस्य प्रतीका। बृहत् उदरं ब्रह्माण्डस्य सङ्केतम्। उदरे बद्ध: सर्प: ब्रह्माण्डं वहन् आदिशेष:। विशालौ कर्णौ ज्ञानद्योतकौ। हस्ते विद्यमानपाश: रागम् अङ्कुश: क्रोधं च प्रतिपादयत:। एकदन्त: अद्वैतप्रतीक: च।


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Comments: