नर्मदा नदी पर संस्कृत निबंध (Essay on Narmada River in Sanskrit)

नर्मदा नदी पर संस्कृत निबंध (Essay on Narmada River in Sanskrit)

Essay on Narmada River in Sanskrit: नर्मदा नदी भारतस्य सप्तमहानदीषु अन्यतमा वर्तते। नर्मदा भारतस्य काचित् पवित्रा नदी। इयं नदी मध्यप्रदेशराज्यस्य प्रमुखतमा नदी विद्यते। नर्मदायाः अपरं नाम शिवपुत्री इति । मध्यप्रदेशराज्यस्य अनूपपुरमण्डलस्य अमरकण्टक-नगरम् अस्याः नद्याः उद्गमस्थानं वर्तते। नर्मदानदी विन्ध्याचलपर्वतशृङ्खला-सतपुडापर्वतशृङ्खलयोः विभाजनं करोति। शङ्कराचार्यः अपि नर्मदायाः तीरे एव तस्य गुरुं गोविन्दभगवत्पादम् अमिलत्।

पुराणेषु नर्मदायाः कथा अनेकैः प्रकारैः वर्णिता अस्ति। भगवान् शिवः ऋक्षपर्वते ध्यानावस्थायाम् उपविष्टः आसीत्। शिवस्य कण्ठात् नर्मदायाः उत्पत्तिर्जाता। केषाञ्चित् विदुषां मते अमरकण्टक-नगरस्य प्राचीनं नाम अमरकण्ठः आसीत्। इदं नाम भगवतः शङ्करस्य अस्ति। नर्मदा शिवात् उत्पन्ना, अतः तस्याः अपरं नाम शाङ्करी इत्यपि। द्वादशज्योतिर्लिङ्गेषु अन्यतमम् ओङ्कारेश्वरज्योतिर्लिङ्गं नर्मदायाः तीरे अस्ति।

प्रतिवर्षं जनवरी-मासस्य त्रिंशत्तमः (३०) दिनाङ्कः नर्मदानद्याः जन्मदिवसत्वेन आचर्यते। इदं पर्व अस्याः पवित्रनद्याः श्रद्धायाः प्रतीकः वर्तते। मध्यप्रदेशीयाः नर्मदां मातृत्वेन प्रीणन्ति। यत्र यत्र नर्मदानदी प्रवहति तत्र तत्र ये घट्टाः (घाट) सन्ति तत्रापि जनाः इदं पर्व आचरन्ति। तत्र जनाः पूजाभागत्वेन नद्यां दीपान् प्रज्वालयन्ति। इदं दीपदानम् इति कथ्यते। नर्मदायाः स्पर्शमात्रेण यदा अश्वमेधयज्ञस्य फलं लभ्यते तदा स्नानं तु करणीयमेव।


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Comments: